(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.44. अध्यायः 044
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

धृतराष्ट्र उवाच। 5-44-0x(3527)(33442)
सनत्सुजात यामिमां परां त्वं
ब्राह्मीं वाचं वदसे विश्वरूपाम्।
परां हि कामेन सुदुर्लभां कथां
प्रब्रूहि मे वाक्यमिदं कुमार । 5-44-1(33443)
सनत्सुजात उवाच। 5-44-2x(3528)
नैतद्ब्रह्म त्वरमाणेन लभ्यं
यन्मां पृच्छन्नतिहृष्यस्यतीव।
बुद्धौ विलीने मनसि प्रचिन्त्य
विद्या हि सा ब्रह्मचर्येण लभ्या ॥ 5-44-2(33444)
धृतराष्ट्र उवाच। 5-44-3x(3529)
अत्यन्तविद्यामिति यत्सनातनीं
ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्।
अनारभ्यां वसतीह कार्यकाले
कथं ब्राह्मण्यममृतत्वं लभेत ॥ 5-44-3(33445)
सनत्सुजात उवाच। 5-44-4x(3530)
अव्यक्तविद्यामभिधास्ये पराणीं
बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्।
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति
या वै विद्या गुरुवृद्धेषु नित्या ॥ 5-44-4(33446)
धृतराष्ट्र उवाच। 5-44-5x(3531)
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा।
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ 5-44-5(33447)
सनत्सुजात उवाच। 5-44-6x(3532)
आचार्ययोनिमिह ये प्रविश्य
भूत्वा गर्भे ब्रह्मचर्यं चरन्ति।
इहैव ते शास्त्रकारा भवन्ति
प्रहाय देहं परमं यान्ति योगम् ॥ 5-44-6(33448)
अस्मिँल्लोके वै जयन्तीह कामा-
न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः।
त आत्मानं निर्हरन्तीह देहा-
न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ 5-44-7(33449)
शरीरमेतौ कुरुतः पिता माता च भारत।
आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम 5-44-8(33450)
यः प्रावृणोत्यवितथेन वर्णा-
नृतं कुर्वन्नमृतं संप्रयच्छम्।
तं मन्येत पितरं मातरं च
तस्मै न द्रुह्येत्कतमस्य जानन् ॥ 5-44-9(33451)
गुरुं शिष्यो नित्यमभिवादयीत
स्वाध्यायमिच्छेच्छुचिरप्रमत्तः।
मानं न कुर्यान्नादधीत रोप-
मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ 5-44-10(33452)
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ 5-44-11(33453)
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ 5-44-12(33454)
समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत्।
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ 5-44-13(33455)
आचार्येणात्मकृतं विजानन्
ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति हृष्टबुद्धिः
स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ 5-44-14(33456)
नाचार्यस्यानपाकृत्य प्रवासं
प्राज्ञः कुर्वीत नैतदहं करोमि।
इतीव मन्येत न भाषयेत
स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ 5-44-15(33457)
कालेन पादं लभते तथार्थं
ततश्च पादं गुरुयोगतश्च।
उत्साहयोगेन च पादमृच्छे-
च्छास्त्रेण पादं च ततोऽभियाति ॥ 5-44-16(33458)
धर्मादयो द्वादश यस्य रूप-
मन्यानि चाङ्गानि तथा बलं च।
आचार्ययोगे फलतीति चाहु-
र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ 5-44-17(33459)
एवं प्रवृत्तो यदुपालभेत वै
धनमाचार्याय तदनुप्रयच्छेत्।
स तां वृत्तिं बहुगुणामेवमेति
गुरोः पुत्रे भवति च वृत्तिरेषा ॥ 5-44-18(33460)
एवं वसन्सर्वतो वर्धतीह
बहून्पुत्रांल्लभते च प्रतिष्ठाम्।
वर्षन्ति चास्मै प्रदिशो दिशश्च
वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ 5-44-19(33461)
एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन्।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ 5-44-20(33462)
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् ।
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ 5-44-21(33463)
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव ।
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ 5-44-22(33464)
य आश्रयेत्पावयेच्चापि राज-
न्सर्वं शरीरं तपसा तप्यमानः।
एतेन वै बाल्यमभ्येति विद्वान्
मृत्युं तथा स जयत्यन्तकाले ॥ 5-44-23(33465)
अन्तवतः क्षत्रिय ते जयन्ति
लोकाञ्जनाः कर्मणा निर्मलेन ।
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं
नान्यः पन्था अयनाथ विद्यते ॥ 5-44-24(33466)
धृतराष्ट्र उवाच। 5-44-25x(3533)
आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमथाञ्जनं काद्रवं वा।
सद्ब्रह्मणः पश्यति योऽत्र विद्वा-
न्कथं रूपं तदमृतमक्षरं पदम् ॥ 5-44-25(33467)
सनत्सुजात उवाच। 5-44-26x(3534)
आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमायसमर्कवर्णम्।
न पृथिव्यां तिष्ठति नान्तरिक्षे
नैतत्समुद्रे सलिलं बिभर्ति ॥ 5-44-26(33468)
न तारकासु न च विद्युदाश्रितं
न चाभ्रेषु दृश्यते रूपमस्य।
न चापि वायौ न च देवतासु
नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ 5-44-27(33469)
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु
न दृश्यते वै विमलेषु सामसु।
रथन्तरे बार्हद्रथे वापि राज-
न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ 5-44-28(33470)
अपारणीयं तमसः परस्ता-
त्तदन्तकोऽप्येति विनाशकाले।
अणीयो रूपं क्षुरधारया समं
महच्च रूपं तद्वै पर्वतेभ्यः ॥ 5-44-29(33471)
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ 5-44-30(33472)
अनामयं तन्महदुद्यतं यशो
वाचो विकारं कवयो वदन्ति।
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥ 5-44-31(33473)
` तदेतदह्ना संस्थितं भाति सर्वं
तदात्मवित्पश्यति ज्ञानयोगात्।
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ 5-44-32(33474)

इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.